Sunday, January 13, 2019

बालकाण्डे - द्वितीयः सर्गः

श्रीमद् वाल्मीकि रामायणे - बालकाण्डे  द्वितीयः सर्गः 




रामायणकाव्यस्य उपक्रमः - तमसातटे क्रौञ्चवधात् संतप्तस्य 
वाल्मीकेः शोकस्य श्लोकरूपतया प्रकटनं ब्रह्मणस्तं प्रति 
रामचरितमयकाव्यनिर्माणार्थं आदेशः - 

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । 
पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥ १ ॥ 
यथावत् पूजितस्तेन देवर्षिrनारदस्तथा । 
आपृछ्यैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥ 
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । 
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥ 
स तु तीरं समासाद्य तमसाया मुनिस्तदा । 
शिष्यमाह स्थितं पार्श्वे दृष्ट्‍वा तीर्थमकर्दमम् ॥ ४ ॥ 
अकर्दममिदं तीर्थं भरद्वाज निशामय । 
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥ 
न्यस्यतां कलशस्तात दीयतां वल्कलं मम । 
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥ 
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । 
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥ 
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । 
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥ ८ ॥ 
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । 
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ ९ ॥ 
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । 
जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥ 
तं शोणितपरीताङ्‍गं वेष्टमानं महीतले । 
भार्या तु निहतं दृष्ट्‍वा रुराव करुणां गिरम् ॥ ११ ॥ 
वियुक्ता पतिना तेन द्विजेन सहचारिणा । 
ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥ १२ ॥ 
तथाविधं द्विजं दृष्ट्‍वा निषादेन निपातितम् । 
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥ 
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । 
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १४ ॥ 
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । 
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १५ ॥ 
तस्यैवं ब्रुवतश्चिंता बभूव हृदि वीक्षतः । 
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १६ ॥ 
चिंतयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । 
शिष्यं चैवाब्रवीद् वाक्यं इदं स मुनिपुङ्‍गवः ॥ १७ ॥ 
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । 
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १८ ॥ 
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । 
प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनिः ॥ १९ ॥ 
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । 
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ २० ॥ 
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । 
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २१ ॥ 
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । 
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २२ ॥ 
आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः । 
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्‍गवम् ॥ २३ ॥ 
वाल्मीकिरथ तं दृष्ट्‍वा सहसोत्थाय वाग्यतः । 
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥ 
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । 
प्रणम्य विधिवच्चैनं पृष्ट्‍वा चैव निरामयम् ॥ २५ ॥ 
अथोपविश्य भगवानासने परमार्चिते । 
वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ २६ ॥ 
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ २७ ॥ 
तद्‍गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ॥ २८ ॥ 
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।
शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं जगौ ॥ २९ ॥ 
पुनरन्तर्गतमना भूत्वा शोकपरायणः ।
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्‍गवम् ॥ ३० ॥ 
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा ।
मच्छंदादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥ ३१ ॥ 
रामस्य चरितं कृत्स्नं कुरु त्वं ऋषिसत्तम ।
धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥ ३२ ॥ 
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।
रहस्यं च प्रकाशं च यद्‌ वृत्तं तस्य धीमतः ॥ ३३ ॥ 
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।
वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥ ३४ ॥ 
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।
न ते वागनृता काव्ये काचिदत्र भविष्यति ॥ ३५ ॥ 
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥ ३६ ॥ 
तावद् रामायणकथा लोकेषु प्रचरिष्यति ।
यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥ ३७ ॥ 
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ ॥ ३८ ॥ 
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । 
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥ 
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । 
सोऽनुव्याहरणाद्‍ भूयः श्लोकः श्लोकत्वमागतः ॥ ४० ॥ 
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः । 
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४१ ॥ 
उदारवृत्तार्थपदैर्मनोरमै- 
     स्तदास्य रामस्य चकार कीर्तिमान् । 
समाक्षरैः श्लोकशतैर्यशस्विनो 
     यशस्करं काव्यमुदारदर्शनः ॥ ४२ ॥ 
तदुपगतसमाससंधियोगं 
     सममधुरोपनतार्थवाक्यबद्धम् । 
रघुवरचरितं मुनिप्रणीतं 
     दशशिरसश्च वधं निशामयध्वम् ॥ ४३ ॥ 
इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये 
श्रीमद् बालकाण्डे द्वितीयः सर्गः ॥ २ ॥ 
॥ श्रीसीतारामचंद्रार्पणमस्तु ॥ 

No comments:

Post a Comment